रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं ।
नाना रत्न विभूषितम् मृग मदामोदांकितम् चंदनम ॥
जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथा।
दीपं देव दयानिधे पशुपते हृत्कल्पितम् गृह्यताम् ॥1॥
सौवर्णे नवरत्न खंडरचिते पात्र धृतं पायसं ।
भक्ष्मं पंचविधं पयोदधि युतं रम्भाफलं पानकम् ॥
शाका नाम युतं जलं रुचिकरं कर्पूर खंडौज्ज्वलं ।
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥2॥
छत्रं चामर योर्युगं व्यजनकं चादर्शकं निमलं।
वीणा भेरि मृदंग काहलकला गीतं च नृत्यं तथा ॥
साष्टांग प्रणतिः स्तुति-र्बहुविधा होतत्समस्तं ममा।
संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥3॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं।
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ॥
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
। यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्॥4॥
इति श्रीमच्छङ्कराचार्यविरचिता शिवमानसपूजा संपूर्णम्