षोडशमातृका आवाहन-स्थापन

Home Puja Vidhi षोडशमातृका आवाहन-स्थापन

                              षोडशमातृका आवाहन-स्थापन

ॐ आयंगीः पृश्निरक्रमी दस दन्मातरम्पुरः। पितरञ्च प्रयन्त्स्वः ।।

0. ॐ गणपतये नमः, गणपतिमावाहयामि, स्थापयामि।

1. ॐ गौर्यै नमः, गौरीमावाहयामि, स्थापयामि ।

2. ॐ पद्मायै नमः, प‌द्मामावाहयामि, स्थापयामि ।

3. ॐ शच्यै नमः, शचीमावाहयामि, स्थापयामि।

4. ॐ मेधायै नमः, मेधामावाहयामि, स्थापयामि ।      

5. ॐ सावित्र्यै नमः, सावित्रीमावाहयामि, स्थापयामि।

6. ॐ विजयायै नमः, विजयामावाहयामि, स्थापयामि।

7. ॐ जयायै नमः, जयामावाहयामि, स्थापयामि ।

8. ॐ देवसेनायै नमः, देवसेनामावाहयामि, स्थापयामि ।

9. ॐ स्वधायै नमः, स्वधामावाहयामि, स्थापयामि ।

10. ॐ स्वाहायै नमः, स्वाहामावाहयामि, स्थापयामि ।

11. ॐ मातृभ्यो नमः, मातृः आवाहयामि, स्थापयामि ।

12. ॐ लोकमातृभ्यो नमः, लोकमातृः आवाहयामि, स्थापयामि।

13. ॐ धृत्यै नमः, धृतिमावाहयामि, स्थापयामि।

14. ॐ पुष्टयै नमः, पुष्टिमावाहयामि, स्थापयामि।

15. ॐ तुष्टयै नमः, तुष्टिमावाहयामि, स्थापयामि ।

16. ॐ आत्मनः कुलदेवतायै नमः, आत्मनः कुलदेवतामावाहयामि, स्थापयामि।

प्रतिष्ठ -   ॐ मनो जूतिर्जुषतामाज्ज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्ठं यज्ञ गुं समिमं दधातु। विश्वे देवा सऽइह मादयन्तामों३ प्रतिष्ठ ।।

ॐ गणेशसहित गौर्यादि षोडशमातृकाभ्यो नमः । एतानि पाद्यार्थ्याचमनीयस्नानीयपुनराचमनीयानि समर्पयामि ।।

दुग्धस्नान-     ॐ कामधेनु समुद् भूतं सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ।। पयः स्नानं समर्पयामि।

दधिस्नान –   ॐ पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ।। दधिस्नानं समर्पयामि।

घृतस्नान-       ॐ नवनीत समुत्पन्नं सर्व संतोष कारकम् । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ।। घृतस्नानं समर्पयामि ।

मधुस्नान-      ॐ पुष्परेणु समुद्भूतं सुस्वादु मधुरं मधु। तेजःपुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ।। मधुस्नानं समर्पयामि 

शर्करास्नान-     ॐ इक्षुरस समुद्भूतां शर्करां पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ।। शर्करास्नानं समर्पयामि।

पञ्चामृतस्नान -    ॐ पञ्चामृतं मयानीतं पयो दधि घृतं मधु । शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ।। पञ्चामृतस्नानं समर्पयामि ।

शुद्धोदकस्नान - ॐ गंगे च यमुने चैव गोदावरी सरस्वती। नर्मदा सिन्धु कावेरी स्नानार्थं प्रतिगृह्यताम् ।। शुद्धोदकस्नानं समर्पयामि ।वस्त्र-       ॐ शीतवातोष्ण संत्राणं लज्जाया रक्षणं परम्। देहालंकरणं वस्त्र मतः शान्तिं प्रयच्छ मे ।। वस्त्रं समर्पयामि।

उपवस्त्र-         ॐ यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति ।।   उपवस्त्रं प्रयच्छामि सर्वकर्मोप कारकम् ।। उपवस्त्रं समर्पयामि चन्दन-  ॐ श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरम्। विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ।। चन्दनानुलेपनं समर्पयामि ।।

अक्षत -   ॐ अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ताः सुशोभिताः। मया निवेदिता भक्त्या गृहाण परमेश्वर ।। अक्षतान् समर्पयामि ।।

पुष्प-    ॐ माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो। मया हृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ।। पुष्पं समर्पयामि ।

दूर्वा  -     ॐ दूर्वाकुरान् सुहरितान् अमृतान् मंगलप्रदान् । आनीतांस्तव पूजार्थं गृहाण गणनायक ।। दूर्वाकुरान् समर्पयामि ।

सिन्दूर -  ॐ सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्। शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ।। सिन्दूरं समर्पयामि ।

अबीर-गुलाल-   ॐ अबीरं च गुलालं च हरिद्रादि समन्वितम् । नाना परिमलं द्रव्यं गृहाण परमेश्वरी ।। नानापरिमलद्रव्याणि समर्पयामि।

सुगन्धिद्रव्य -   ॐ दिव्यगन्ध समायुक्तं महापरिमलाद्भुतम् । गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ।। सुगन्धिद्रव्यं समर्पयामि ।

धूप-  ॐ वनस्पति रसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । आग्रेय सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।। धूपमाघ्रापयामि ।

दीप -    ॐ साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।। दीपं गृहाण देवेश त्रैलोक्य तिमिरापहम् ।। दीपं दर्शयामि ।

नैवेद्य -  ॐ शर्कराखण्ड खाद्यानि दधिक्षीर घृतानि च। आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ।। नैवेद्यं समर्पयामि ।

आचमन - ॐ शीतलं निर्मलं तोयं कर्पूरेण सुवासितम् । आचम्यतां जलं ह्येतत् प्रसीद परमेश्वरि ।। आचमनीयं जलं समर्पयामि ।

करोद्वर्तन -   ॐ चन्दनं मलयोद्भूतं कस्तूर्यादि समन्वितम् । करोद्वर्तनकं देव गृहाण परमेश्वर ।। करोद्वर्तनकं चन्दनं समर्पयामि।

ताम्बूल-पूगीफल-   ॐ पूगीफलं महद्दिव्यं नागवल्ली दलैर्युतम् । एलाचूर्णादि संयुक्तं ताम्बूलं प्रतिगृह्यताम् ।। ताम्बूलं समर्पयामि ।

ऋतुफल-  ॐ इदं फलं मया देवी स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ।। अखण्डऋतुफलं समर्पयामि ।

दक्षिणा-  ॐ हिरण्य गर्भ गर्भस्थं हेमबीज विभावसोः । अनन्त पुण्य फलद मतः शान्तिं प्रयच्छ मे ।। द्रव्यदक्षिणां समर्पयामि |

आरती-    ॐ कदली गर्भ सम्भूतं कर्पूरं तु प्रदीपितम् । आरार्तिकमहं कुर्वे पश्य मे वरदो भव ।। आरार्तिकं समर्पयामि ।

पुष्पाञ्जलि - ॐ नाना सुगन्धि पुष्पाणि यथा कालोद्भवानि च। पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर।। पुष्पाञ्जलिं समर्पयामि ।

प्रदक्षिणा-    ॐ यानि कानि च पापानि जन्मान्तर कृतानि च। तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे ।। प्रदक्षिणां               समर्पयामि ।

इति षोडशोपचारैः सम्पूज्य प्रार्थयेत्-  ॐ गौरी पद्मा शची मेधा सावित्री विजया जया। देवसेना स्वधा स्वाहा मातरो लोकमातरः ।। धृतिः पुष्टिस्तथा        तुष्टिरात्मनः कुलदेवता । गणेशेनाधिका ह्येता वृद्धौ पूज्याश्च षोडश ।। ***

 

     अनया पूजया सगणेशगौर्यादि कुलदेवतान्त षोडशमातरः प्रीयन्तां न मम ।